Myfayth

भावयामि गोपालबालं (Bhavayami Gopalabalam)

भावयामि गोपालबालं मन-

स्सेवितं तत्पदं चिन्तयेहं सदा ॥

भावयामि गोपालबालं मन-

स्सेवितं तत्पदं चिन्तयेहं सदा ॥

कटि घटित मेखला खचितमणि घण्टिका-

पटल निनदेन विभ्राजमानम् ।

कुटिल पद घटित सङ्कुल शिञ्जितेनतं

चटुल नटना समुज्ज्वल विलासम् ॥

भावयामि गोपालबालं मन-

स्सेवितं तत्पदं चिन्तयेहं सदा ॥

निरतकर कलित नवनीतं ब्रह्मादि

सुर निकर भावना शोभित पदम् ।

तिरुवेङ्कटाचल स्थितम् अनुपमं हरिं

परम पुरुषं गोपालबालम् ॥

भावयामि गोपालबालं मन-

स्सेवितं तत्पदं चिन्तयेहं सदा ॥

भावयामि गोपालबालं मन-

स्सेवितं तत्पदं चिन्तयेहं सदा ॥

भावयामि गोपालबालं मन-

स्सेवितं तत्पदं चिन्तयेहं सदा ॥

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top